SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥५८३॥ ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते *प्रतिक्रमवियाहिए ॥३॥' अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च णाध्यान शतकं भिन्नमुहूर्तमेव कालं, किं-'चित्तावस्थानमिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्यर्थः, क?-'एकवस्तुनि' एकम्-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एक च तद्वस्तु एकवस्तु तस्मिन् २ 'छद्मस्थानां ध्यान मिति, तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छझस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'ध्यान' प्राग्वत्, ततश्चायं समुदायार्थः-अन्तर्मुहर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, योगनिरोधो जिनानां विति तत्र योगाः-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-"औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजीवव्यापारो मनोयोगः"| इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां ?-'जिनानां' केवलिनां, तुशब्द एव ॥५८३॥ कारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं १ उच्छासनिश्वास एष प्राण इत्युच्यते ॥२॥ सप्त प्राणास्ते स्तोके सप्त स्तोकास्ते लवे । लवानां सप्तसप्तत्या एष मुहूत्र्तो व्याख्यातः ॥३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy