________________
CASSAGE
भिचारेऽज्ञातज्ञापनार्थ च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः ॥१॥ साम्प्रतं ध्यानलक्षणप्रतिपादनायाऽऽह
जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज भावणा वा अणुपेहा वा अहव चिंता ॥२॥ | व्याख्या-'यदि'त्युद्देशः स्थिर-निश्चलम् अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति यत् स्थिरमध्यवसानं तद्ध्यानमभिधीयते, 'यञ्चल'मिति यत्पुनरनवस्थित तच्चित्तं, तच्चौघतस्त्रिधा भवतीति दर्शयति-'तद्भवेद्भावना वेति तच्चित्तं भवेद्भावना, भाव्यत इति भावना ध्यानाभ्यासक्रियेत्यर्थः, वा विभाषायाम्, 'अनुप्रेक्षा वेति' अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववत् 'अथवा चिन्ते' ति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेति या खलूक्तप्रकारद्वयरहिता चिन्तामनेश्वष्टा सा चिन्तेति गाथार्थः॥२॥ इत्थं ध्यानलक्षणमोघतोऽभिधायाधुना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह
अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ ३॥ ... व्याख्या-इह मुहूर्तः-सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च-'कालो परमनिरुद्धो अविभजो तं तु जाण समयं तु । समया य असंखेज्जा भवंति ऊसासनीसासा ॥१॥ हहस्स अणवगल्लस्स, णिरुव किस्स जंतुणो । एगे
SARAXOURCES
PIGRICE
१ कालः परमनिरुद्धोऽविभाज्यस्तमेव जानीहि समयं तु । समयाश्चासंख्येया भवत उच्छासनिःश्वासौ ॥१॥ हृष्टस्यानवकल्पस्य निरुपक्लिष्टस्य जन्तोः । एक