________________
तत्पुनः कालतोऽन्तर्मुहूर्तमात्रं, भेदतस्तु चतुष्प्रकारमार्तादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमात तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धय॑ तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः। व्यासार्थस्तु ध्यानशतकाद्वसेयः, तच्चेदम्-ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह
'वीरं सुकाझाणग्गिदडकम्मिधणं पणमिऊणं । जोईसरं सरण झाणज्झयणं पवक्खामि ॥१॥ ___ व्याख्या-वीर-शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्र 'ईर गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्ल, शोकं ग्लपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् , एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्म-ज्ञानावरणीयादि तदेवातितीव्रदुःखानलनिबन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लध्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षेण मनोवाकाययोगैर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाद् ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट्' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं २ तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणम्येत्यत आह-'योगेश्वरं योगी