________________
स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा - जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमां, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति - 'अन्ध्रीणां च ध्रुवं लीलाचलितभ्भ्रूलते मुखे । आसज्य राज्यभारं स्वं, सुखं स्वपिति मन्मथः ॥ १ ॥ इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तम्ओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, यथोक्तम्- 'भक्तकहावि चउद्धा आवावकहा तहेव णिवावे | आरंभकहा य तहा णिट्ठाणकहा चउत्थी उ ॥ १ ॥ आवावित्तियदवा सागघयादी य एत्थ उवउत्ता । दसपंचरूवइत्तियवंजणभेयाइ णिवावे ॥ २ ॥ आरंभ छागतित्तिरम हिसारण्णादिया वधित एत्थ । रूवगसयपंचसया णिट्ठाणं जा |सयसहस्सं ॥ ३ ॥ देश: - जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुद्धैव यथोक्तम् - देसरस कहा भण्णइ देसकहा देस जणवओ होति । सावि चउद्धा छंदो विही विगप्पो य णेवत्थं ॥ १ ॥ छंदो गम्मागम्मं जह माउलदुहियमंगलाडाणं । अण्णेसिं सा भगिणी गोल्लाईणं अगम्मा उ ॥ २ ॥ मातिसवत्तिउदिच्चाण गम्म अण्णेसि एग पंच ।
१ भक्तकथापि चतुर्धा आवापकथा तथैव निर्वापे । आरम्भकथा च तथा निष्ठानकथा चतुर्थी च ॥१॥ आवाप ईयद्रव्या शाकष्टतादिश्चान्त्रोपयुक्ताः । दश पञ्चरूप्यका इयद्-चव्यञ्जनभेदादिनिवापे ॥ २ ॥ आरम्भे छागतित्तिरमहिपारण्यादिका हता अत्र । शतपञ्चशतरूपका निष्ठानं यावत् शतसहस्रम् ॥ ३ ॥ देशस्य कथा भण्यते देशकथा देशो जनपदो भवति । साऽपि चतुर्धा छन्दो विधिर्विकल्पश्च नेपथ्यम् ॥ १ ॥ छन्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गलाटानाम् । अन्येषां सा भगिनी गोलादीनामगम्या तु ॥ २ मातृसपत्ती तु उदीच्यानां गम्या अन्येषामेका पञ्चानाम् ।