SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. ॥५८०॥ विराधना तया-व्रतादिखण्डनलक्षणया॥प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तद्यथा-क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ॥ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा-आहारसंज्ञयेत्यादि ४, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, तत्राऽऽद्या। ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहार|संज्ञा-आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'ओम-13 कोठयाए १ छुहावेयणिज्जस्स कम्मस्सोदएणं २ मईए ३ तदह्रोवजोगेणं तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा-भयाभिनिवेशः-भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'हीणसत्तयाए १ भयमोहणिज्जोदएणं २ मइए ३ तयहोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानः समुत्पद्यते, तद्यथा-'चियमंससोणियत्ताए १ वेदमोहणिज्जोदएणं २ मईए ३ तयहोवओगेणं ४' तया, तथा परिग्रहसंज्ञा-परिग्रहाभिलाषस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानरुत्पद्यते, तद्यथा-'अविवित्तयाए १ लोहोदएणं २ मईए ३ तदह्रोवओगेणं ४. तया॥ प्रतिक्रमामि |चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा-'स्त्रीकथयेति विरुद्धा विनष्टा वा कथा विकथा, सा च अवमकोष्ठतया क्षुधा वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन. २ हीनसत्त्वतया भयमोहनीयोदयेन मत्या तदर्थोपयोगेन. ३ चितमांसशोणिततया वेदमोहनीयोदयेन मत्या तदर्थोपयोगेन. ४ अविविक्ततया लोभोदयेन मत्या तदर्थोपयोगेन. ॥५८०॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy