SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ SCORRECROSAROSAURUSHORS मा सोवि एवं होहिति जीहादोसेण जीह दाएमि । दहण तयं साहू सुहृतरमगारवा जाया ॥६॥प्रतिक्रमामि तिसभिविराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा-ज्ञानविराधनयेत्यादि, तत्र विराधनं-कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च-'णाणपडिणीय णिण्हव अच्चासायण तदंतरायं च । कुणमाणस्सऽइयारो णाणविसंवादजोगं च ॥१॥' तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा-आभिनिबोधिकज्ञानमशोभनं, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निह्नवो-व्यपलापः, अन्यसकाशेऽधीतमन्य व्यपदिशति, अच्चासायणा-'काया वया य तेच्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारिगाणं जोइसजोणीहि किं कजं? ॥१॥' इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनंसम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निवः-दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना-किमेभिः कलहशास्त्रैरिति !, अन्तरायं प्राग्वत् , दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारि मा सोऽप्येवं भविष्यति जिहादोपेण जिहां दर्शयामि । दृष्ट्वा तकत् साधवः सुष्ठतरमगौरवा जाताः ॥६॥२ काया प्रतानि च तान्येव त एवं प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतियोनिभिः किं कार्यम् ॥१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy