SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५७९॥ चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिलजमालिभिक्षूपचरकश्रावका अभिनि ४प्रतिक्रमवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयं सामायिके उक्तं, भिक्षूपचरकश्रावक णा. कथानकं तूपरिष्टाद्वक्ष्यामः॥ प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः,तद्यथा-ऋद्धिगौरवेण रसगौरवेण सातगौरवेण, तत्र गुरोर्भावो गौरवं, तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिमानलोभाभ्यामात्मनोऽशु-18 |भभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्ध्या-नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरवं-ऋद्धिप्राप्त्याभिमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवम्-इष्टरसप्राप्यभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सात-सुखं तेन गौरवं सातप्राप्त्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः-मथुराएँ अजमंगू आयरिया सुबहुसड्डा (हया य ) तहियं च । इरसवत्थसयणासणाइ अहियं पयच्छति ॥१॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ। महुराए निद्धमणे जक्खो य तहिं समुप्पण्णो ॥२॥ जक्खायतणअदूरेण तत्थ साहूण वच्चमाणाणं । सण्णाभूमिं ताहे अणुपविसइ जक्खपडिमाए ॥३॥ णिल्लालेउं जीहं णिप्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं ॥४॥ किमिदं? तो सो वयई जीहादुट्ठो अहं तु सो मंगू । इत्थुववण्णो तम्हा तुम्भेवि एवं करे कोई ॥३॥ १मधुरायामार्यमजाव आचार्याः, सुबहवः श्राद्धास्तत्र च । इष्टरसवस्त्रशयनासनादि अधिक प्रयच्छन्ति ॥१॥ स त्रिभिरपि गौरवैः प्रतिबद्धोऽत्तीव ॥५७९॥ तत्र कालगतः । मधुरायां निर्धमने यक्षश्च तत्र समुत्पनः ॥२॥ यक्षायतनस्यादरेण तन्त्र साधूनां बजताम् । संज्ञाभूमि तदाऽनुप्रविश्य यक्षप्रतिमायाम् ॥३॥ निलोल्य जिह्वां निष्काश्य तां गवाक्षेण । दर्शयति एवं बहुशः पृष्टश्च कदाचित् साधुभिः॥४॥ किमिदं तदा स वदति जिहादुष्टोऽहं तु स मङ्गुः । अत्रोपपन्नस्तस्माद्युष्माकमप्येवं कुर्यात्कोऽपि ॥ ५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy