________________
RICOURISHISRUSSOAS
प्रतिक्रमणाद्युत्तरकालं लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह-'इतरो गिलिए'त्ति प्रक्षिप्ते सति कंवले अना-16 चार इति गाथार्थः ॥ इदं चाधाकर्मोदाहरणेन सुखप्रतिपत्त्यर्थमतिक्रमादीनां स्वरूपमुक्तम् , अन्यत्राप्यनेनैवानु-| सारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्ख्येयविधः, संक्षेप-13 विस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप, एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः, तत्रैकविधादिभेदप्रतिक्रमणप्रतिपादनायाह
पडिकमामि एगविहे असंजमे। पडिकमामि दोहि बन्धणेहिं-रागबंधणेणं दोसबन्धणेणं। पतिहिं दण्डहिंमणदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए ॥ (सूत्रम् )
प्रतिक्रमामि पूर्ववत् , एकविधे-एकप्रकारे असंयमे-अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिचारः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः, वक्ष्यते च-'सज्झाए ण सज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां बन्धनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन द्र हेतुभूतेन तद्वन्धनमिति, तद्वन्धनद्वयं दर्शयति-रागबन्धनं च द्वेषबन्धनं च, रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बन्ध-ले नत्वं चानयोः प्रतीत, यथोक्तम्-'स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥१॥' 'प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेद| भिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृति