SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया १५७६॥ पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिले- ४ प्रतिक्रमहणयाए अप्पमजणाए दुप्पमजणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइआरो कओ णाध्य. तस्स मिच्छामि दुक्कडं ॥ (सू०), अस्य व्याख्या प्रतिक्रमामि पूर्ववत्, कस्य ?-चतुष्कालं-दिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य-सूत्रपौरुषीलक्षणस्य, अकरणतया-अनासेवनया हेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, तथोभय-15 कालं-प्रथमपश्चिमपौरुषीलक्षणं भाण्डोपकरणस्य-पात्रवस्त्रादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा-मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा-दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणा|दिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोड-13 तिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत् , नवरमतिक्रमादीनां स्वरूपमुच्यते-'आधाकम्मनिमंतण पडिसुणमाणे द्र अइक्कमो होइ । पयभेयाइ वइक्कम गहिए तइएयरो गिलिए ॥१॥' अस्य व्याख्या-आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रमः-साधुक्रियोल्लङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं ?, ततःप्रभृति भाजनोद्हणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रम- ५७६॥ स्तावद् यावदुत्क्षिप्तं भोजनं दात्रेति, ततो गृहीते सति तस्मिंस्तृतीयः, अतिचार इत्यर्थः, तावद् यावद्वसतिं गत्वेर्यापथ . आधाकर्मनिमन्त्रणे प्रतिशृण्वति अतिक्रमो भवति । पदभेदादि व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥१॥ ॐ45545555
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy