________________
प्राणिभोजना तया, तेषां च सट्टनादि दातृग्राहकप्रभवं विज्ञेयम्, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा बीजभोजना तया, एवं हरितभोजनया, 'पच्छाकम्मियाए पुरेकम्मियाए' पश्चात् कमें यस्यां पश्चाजलोज्झनकर्म भवति पुरःकर्म यस्यामादाविति, 'अदिहडाए'त्ति अदृष्टाहृतया-अदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्व
सङ्घट्टनादिनाऽतिचारसम्भवो, दगसंसृष्टाहृतया-उदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः हसंसृष्टाहृतया, नवरं रजः पृथिवीरजोऽभिगृह्यते, 'पारिसाडणियाए'त्ति परिशाटः-उज्झनलक्षणः प्रतीत एव तस्मिन् भवा।
पारिशाटनिका तया, 'पारिठ्ठावणियाए'त्ति परिस्थापन-प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निवृत्ता पारिस्थापनिका तया, एतदुक्तं भवति-'पारिठ्ठावणिया खलु जेण भाणेण देइ भिक्खं तु । तंमि पडिओयणाई जातं सहसा परिठवियं ॥१॥' 'ओहासणभिक्खाए'त्ति विशिष्टद्रव्ययाचनं समयपरिभाषया 'ओहासणंति भण्णइ' तत्प्रधाना या भिक्षा तया, कियदत्र भणिष्यामो ?, भेदानामेवंप्रकाराणां बहुत्वात् , ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत आह'जं उग्गमेण' मित्यादि, यत्किश्चिदशनाद्युद्गमेन-आधाकर्मादिलक्षणेन उत्पादनया-धाच्यादिलक्षणया एपणया-शङ्कितादिलक्षणया अपरिशुद्धम्-अयुक्तियुक्तं प्रतिगृहीतं वा परिभुक्तं वा यन्न परिष्ठापितं, कथञ्चित् प्रतिगृहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण यन्नोज्झितम्, एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् ॥ एवं गोचरातिचारप्रतिक्रमणमभिधायाधुना स्वाध्यायाद्यतिचारप्रतिक्रमणप्रतिपादनायाऽऽह
१ पारिस्थापनिका खलु येन भाजनेन ददाति भिक्षा तु । तस्मिन् पतितौदनादि जातं सहसा परिस्थापितम् ॥१॥
दिनपणास्ववतरन्त्यत आह
पाकमोदिलक्षणेन उत्पादनया
परिशुद्धम्-अयुक्तियुक्तं