________________
प्रतिक्रमणाध्य.
आवश्यक- योगः, गोश्चरणं गोचरः चरण-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?-भिक्षार्थ चर्या भिक्षा- हारिभ- कचर्या तस्यां, तथाहि-लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगद्रीया च्छन् भिक्षामटतीति, कथं पुनस्तस्यामतिचार इत्याह-'उग्धाडकवाडउग्घाडणाए' उद्घाटम्-अदत्तार्गलमीषत्स्थगितं वा
किं तत् ?-कपाटं तस्योद्घाटनं-सुतरां प्रेरणम् उद्घाटकपाटोद्घाटनम् इदमेवोद्घाटकपाटोद्घाटना तया हेतुभूतया, ॥५७५॥
इह चाप्रमार्जनादिभ्योऽतिचारः, तथा श्वानवत्सदारकसङ्घटनयेति प्रकटार्थ, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं-'मंडीपाहुडिया साहुंमि आगए अग्गकूरमंडीए । अण्णमि भायणमिव काउं तो देइ साहुस्स ॥१॥ तत्थ पवत्तणदोसो ण कप्पए तारिसा सुविहियाण । बलिपाहुडिया भण्णइ चउद्दिसिं काउ अच्चणियं ॥२॥ अग्गिमि व छोणं सित्थे तो देइ साहुणो भिक्खं । सावि ण कप्पइ ठवणा (जा) भिक्खायरियाण ठविया उ ॥३॥
आधाकर्मादीनाम्-उद्गमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत • इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतुभूतया, तथा 'पाणभो
यणाए'त्ति प्राणिनो-रसजादयः भोजने-दध्योदनादौ सङ्घघ्यन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा|
॥५७५
मण्डिप्राभृतिका साधावागते अग्रकूरमण्ड्यै । अन्यस्मिन् भाजने वा कृत्वा ततो ददाति साधवे ॥१॥ तत्र प्रवर्तनदोषो न कल्पते तादृशी सुविहिहतानाम् । बलिप्राभृतिका भण्यते चतुर्दिशं कृत्वाऽर्च निकाम् ॥ २ ॥ अग्नौ वा क्षित्वा सिक्थान ततो ददाति साधवे भिक्षाम् । साऽपि न कल्पते स्थापना(या)
भिक्षाचरेभ्यः स्थापिता ॥३॥