________________
लोत्तरगुणातिचारविषया भवत्यतो भेदेन तां दर्शयन्नाह - 'इत्थीविप्परियासियाए 'त्ति स्त्रिया विपर्यासः स्त्रीविपर्यासः - अ ब्रह्मासेवनं तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसाऽभ्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजन परिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः - अतिक्रम इत्यर्थः कृतो - निर्वर्तितः 'तस्स मिच्छामि दुक्कडं' पूर्ववत्, आह- दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहि - अपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ॥ एवं त्वग्वर्तनास्थानातिचारप्रतिक्रमणममिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह —
पक्किमामि गोयरचरियाए भिक्खायरियाए उग्धाडकवाडउग्घाडणाए साणावच्छादारासंघहणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अहिडाए द्गसंसट्टहडाए रयसंसट्टहडाए पारि साडणियाए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायनेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिट्ठविअं तस्स मिच्छामि दुक्कडं ॥ ( सू० )
अस्य व्याख्या - प्रतिक्रमामि - निवर्तयामि, कस्य ? - गोचरचर्यायां- भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति