________________
आवश्यकहारिभद्रीया
॥५७४॥
शय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत् , उद्वर्तनं तत्प्रथमतया वामपार्थेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तन- ४प्रतिक्रममुद्वर्तनमेवोद्वर्तना तया, परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेव परिवर्तना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः, आकुञ्चनं-18
णाध्य. गात्रसङ्कोचलक्षणं तदेवाकुश्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्-'कुक्कुडिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोवि आउंटे ॥१॥ अइकुंडिय सिय ताहे जहियं पायस्स पण्हिया ठाइ। तहियं पमजिऊणं आगासेणं तु णेऊणं ॥२॥ पाय ठावित्तु तहिं आगासे चेव पुणोवि आउंटे । एवं विहिमकरेंते अइयारो तत्थ से होइ ॥३॥' षट्रपदिकानां-यूकानां सङ्घट्टनम्-अविधिना स्पर्शनं षट्पदिकासङ्घद्दनं तदेव षट्पदिकासङ्घटना तया, तथा 'कूइए'त्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन् अविधिना मुखवस्त्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषोच्चारणं सकर्करायितमुच्यते तस्मिन् सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्षणम् आमर्षः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन् , सरजस्कामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम् , अधुना सुप्तस्योच्यते-'आउलमाउलाए'त्ति आकुलाकु
॥५७४॥ लया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वमप्रत्ययया-स्वमनिमित्तया, विराधनयेति गम्यते, सा पुनर्मू
कुकुटी पादौ प्रसारयेत् यथाऽऽकाशे पुनरप्याकुञ्चयेत् । एवं प्रसार्याकाशे पुनरप्याकुञ्चयेत् ॥ १॥ अतिवाधितं स्यात्तदा यत्र पादस्य पार्णिका तिष्ठति । तत्र प्रमााकाशे तु नीत्वा ॥ २॥ पादं स्थापयित्वा तत्राकाश एव पुनरप्याकुञ्चयेत् । एवं विधिमकुर्वत्यतिचारस्तत्र तस्य भवति ॥ ३ ॥