SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सङ्घातिता-अन्योऽन्यं गात्रैरेकत्र लगिताः, सङ्घट्टिता-मनाक स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुद्घातं 8 नीताः ग्लानिमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानात् स्थानान्तरं सङ्क्रामिताः-स्वस्थानात् परं स्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कड' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्ववद्, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थं गमनातिचारप्रतिक्रमणमुक्तम्, अधुना त्वग्वर्तनस्थानातिचारप्रतिक्रमणं प्रतिपादयन्नाह। इच्छामि पडिक्कमिउ पगामसिज्जाए निगामसिज्जाए संथाराउव्वट्टणाए परिवट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसेससरक्खामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं ॥ (सू०) ___ अस्य व्याख्या इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, 'शीङ् स्वमे' अस्य यप्रत्ययान्तस्य 'कृत्यल्युटो बहुल'(पा०३-३-११३)मिति वचनात् शयनं शय्या प्रकामं-चातुर्याम शयनं प्रकामशय्या शेरतेऽस्यामिति वा शय्या-संस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता | प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः,प्रतिदिवसं प्रकामशय्यैव निकाम
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy