________________
प्रतिक्रमणाध्य.
आवश्यक
| तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कड' इत्यनेन तु निष्ठाकालमिति, तत्रेरणमीर्या गमनमित्यर्थः, तत्प्रधानः हारिभद्रीया
पन्था ईर्यापथः तत्र भवैर्यापथिकी तस्यां, कस्यामित्यत आह-विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधना
क्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्ये॥५७३॥ कवद्भावस्तस्मिन् , तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः
कथं जातोऽतिचार इत्यत आह-'पाणक्कमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणं-पादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति, तत्रावश्यायः-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गईभाकृतयो जीवाः कीटिकानगराणि वापनकः-फुल्लि दगमृत्तिकाचिक्खल्लम् , अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्याय5 श्चोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं-आक्रमणं तस्मिन् ,किं बहुना!, कियन्तो 3
भेदेनाऽऽख्यास्यन्ते ?, सर्वे ये मया जीवा विराधिता-दुःखेन स्थापिताः, एकेन्द्रियाः-पृथिव्यादयः, द्वीन्द्रियाः-कृम्या| दयः, त्रीन्द्रियाः-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमरादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्जीकृताः, धूल्या वा स्थगिता इति, श्लेषिताः-पिष्टाः, भूम्यादिषु वा लगिताः,
* किंविशिष्टाया०प्र०. + अभिमुखागता.
ASESORIASSARAM
॥५७३॥