________________
पडिसिद्धाणं करणे किचाणमकरणे य पडिकमणं । असद्दहणे य तहा विवरीयपरूवणाए य ॥ १२७१॥ व्याख्या-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ?प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् 'अकरणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम् , अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकथनायां च प्रतिक्रमणमिति गाथार्थः ॥ १२७१ ॥ अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषौ तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामा|यिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्यायोज्यं, चत्वारो मङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमधिकृत्याऽऽह
इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयकमणे हरियक्कमणे ओसा६ उत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणे जे मे जीवा विराहिया एगिंदिया बेइंदिया तेइंदिया चउरिंदिया
पंचिंदिआ अभिहआ वत्तिआ लेसिआ संघाइआ संघट्टिआ परिआविआ किलामिआ उद्दविआ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ॥ (सू०)
अस्य व्याख्या-इच्छामि-अभिलषामि प्रतिक्रमितुं-निवर्तितुम् , ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते,