SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणाध्य. 14 आवश्यक- ४श्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवे- हारिभ लायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भो(भुक्त्वा वा स्वहस्तादिना तद्गृह्नत इति भावना षष्ठी, उज्झितद्रीया धर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैवम्भूता एव, नवरं ॥५७२॥ चतुर्थी नानात्वं, तत्राप्यायामसौवीरादि निपं विज्ञेयमिति, अष्टानां प्रवचनमात्रणां, ताश्चाष्टौ प्रवचनमातरः-तिस्रो गुप्तयः तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम्-“समिओ| ४ णियमा गुत्तो गुत्तो समियत्तणमि भइयो । कुसलवइमुदीरितो जं वयगुत्तोऽवि समिओऽवि॥१॥" नवानां ब्रह्मचर्य गुप्तीनां-वसतिकथादीनाम्, आसां स्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे-दशप्रकारे श्रमणधर्मे-साधुधर्मे क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगाः-श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां-व्यापाराणां सम्यक्प्रतिसेवनश्रद्धानप्ररूपणालक्षणानां यत् खण्डितं-देशतो भग्नं यद्विराधितं-सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितं, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, |एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमाह, मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथा १ समितो नियमादृप्तो गुप्तः समितत्वे भक्तव्यः । कुशलवाचमुदीरयन् यद्दचोगुप्तोऽपि समितोऽपि ॥ १॥ ॥५७२।।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy