________________
स्व्यनुचित इत्यर्थः, यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः-साधूनामनाचरणीयः, यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः-मनागपि मनसाऽपि न प्रार्थनीय इति,किंविषयोऽयमतिचार इत्याह'णाणे दंसणे चरित्ते' ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे-'सुए'त्ति श्रुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः, 'सामाइय(ए)'त्ति सामायिकविषयः, सामायिकग्रहणात् सम्यक्त्वसा|मायिकचारित्रसामायिकग्रहणं, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीण मित्यादि, तिसृणां गुप्तीनां, तत्र प्रविचाराप्रविचाररूपा गुप्तयः, चतुर्णा कषायाणां-क्रोधमानमायालोभानां, पञ्चानां महाव्रतानां-प्राणातिपातादिनिवृत्तिलक्षणानां, षण्णां जीवनिकायानां पृथिवीकायिकादीनां, सप्तानां पिण्डैषणानांअसंसृष्टादीनां,ताश्चेमाः–'संसहमसंसठ्ठा उद्धड तह होइ अप्पलेवा य । उग्गहिआ पग्गहिआ उज्झिय तह होइ सत्तमिआ॥१॥ __व्याख्या-तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, असंसढे हत्थे असंसढे मत्ते, अखरडियमिति वुत्तं भवई' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या, 'संसहे हत्थे संसढे मत्ते, खरडिइत्ति वुत्तं होइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थालादौ स्वयोगेन भोजनजातमुद्धृतं, ततः असंसहे हत्थे असंसद्धे मत्ते असंसढे वा मत्ते संसहे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं-पृथुकादि गृह्णत
१ असंसृष्टो हस्तोऽसंसृष्टं मात्रं अखरण्टितं इत्युक्तं भवति. २ संसृष्टो हस्तो संसृष्टं मात्रं खरण्टितं इत्युक्तं भवति. ३ असंसृष्टो हस्तो असंसृष्टं मात्रं असंसृष्टं वा मानं संसृष्टो हस्तो * नेन प्र..