SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया 1140811 अकप्पो अकरणिजो दुज्झाओ दुव्विचितिओ अणायारो अणिच्छियव्वो असमणपाउरगो नाणे दंसणे चरिते सुए सामाइए तिन्हं गुत्तीणं चउन्हं कसायाणं पंचण्डं महत्वयाणं छण्हं जीवणिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ ( सू० ) इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थ:- इच्छामि -अभिलपामि प्रतिक्रमितुं निवर्त्तितुं, कस्य य इत्यतिचारमाह - मयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो- निर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं' अनेन तु निष्ठाकालमिति भावना, स पुनरतिचारः उपाधिभेदेनानेकधा भवति, अत एवाह-कायेन शरीरेण निर्वृत्तः कायिकः कायकृत इत्यर्थः, वाचा निर्वृत्तो वाचिकः - वाकृत इत्यर्थः, मनसा निर्वृत्तो मानसः, स एव 'मानसिउ 'त्ति मनःकृत इत्यर्थ:ऊर्ध्वं सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः मार्गः क्षायोपशमिको भावः, ऊर्ध्व मार्गादुन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिक, भावसङ्क्रम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधि ः आचारः कल्प्यः - चरणकरणव्यापारः न कल्प्यः - अकल्पयः, अतः द्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः - अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाह-दुष्टो ध्यातो दुर्ध्यातः- आर्तरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः-अशुभ एव चलचित्तया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः तप ४प्रतिक्रम णाध्य. ॥५७१ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy