________________
| णिस्सेसकम्मपगडीण वावि जो होइ खाइगो भावो । तस्सवि हु उत्तमा ते सबपयडिवज्जिया जम्हा ॥ २ ॥ साधवः - प्राग्निरूपितशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकस्य उत्तमाः - प्रधाना लोकोत्तमाः, तथा चोक्तम्- 'लोगुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु । दंसणनाणचरित्ताणि तिण्णि जिणइंदभणियाणि ॥ १ ॥' केवलिप्रज्ञप्तो धर्मः - प्राग्निरूपितशब्दार्थः, स च क्षायोपशमिकौपशमिकक्षायिकभावलोकस्योत्तमः - प्रधानः लोकोत्तमः, तथा चोक्तम्- 'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति णायचो । खओवसमिओवसमियं खइयं च पडुच्च लोगं तु ॥ १ ॥ यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह - 'चत्तारि सरणं पवज्जामि' अथवा कथं पुनर्लोकोत्तमत्वम् ?, आश्रयणीयत्वात्, आश्रयणीयत्वमुपदर्शयन्नाह - चत्तारि सरणं पवज्जामि अरिहन्ते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरणं पवज्जामि केव लिपण्णत्तं धम्मं सरणं पवज्जामि ॥ ( सू० )
चत्वा(तु)रः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आश्रयं गच्छामि, भेदेन तानुपदर्शयन्नाह - 'अरिहंते' त्यादि, अर्हतः 'शरणं प्रपद्ये' सांसारिकदुःखशरणायार्हत आश्रयं गच्छामि, भक्तिं करोमीत्यथः, एवं सिद्धान् शरणं प्रपद्ये, साधून् शरणं प्रपद्ये, केवलिप्रज्ञतं धर्मं शरणं प्रपद्ये । इत्थं कृतमङ्गलोपचारः प्रकृतं प्रतिक्रमणसूत्रमाह
'इच्छामि पडिक्कमिडं जो मे देवसिओ अइआरो कओ, काइओ वाइओ माणसिओ, उस्तो उम्मग्गो
१ निश्शेषकर्मप्रकृतीनां वापि यो भवति क्षायिको भावः । तस्याप्युत्तमास्ते सर्वप्रकृतिविवर्जिता यस्मात् ॥ २ ॥ २ लोकोत्तमा इति साधवः प्रतीत्य ते भावलोकमेनं तु । दर्शनज्ञानचारित्राणि त्रीणि जिनेन्द्रभणितानि ॥ १ ॥ ३ धर्मः श्रुतं चरणं च द्विधापि लोकोत्तम इति ज्ञातव्यः । क्षायोपशमिकौपशमिक क्षायिकं प्रतीत्यैव लोकम् ॥ १ ॥ * त्राणाय प्र०.