SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ लिप्रज्ञप्तः, कोऽसौ ?- धर्मः श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम्, अनेन कपिलादिप्रज्ञप्तधर्मव्यवच्छेदमाह । अर्हदादीनां च मङ्गलता तेभ्य एवं हितमङ्गलात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह च चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो | अथवा कुतः पुनरर्हदादीनां मङ्गलता ?, लोकोत्तमत्वात्, तथा चाssह - 'चत्तारि लोगुत्तमा' चत्वारः खल्वनन्तरोक्ता वक्ष्य| माणा वा लोकस्य - भावलोकादेरुत्तमाः - प्रधाना लोकोत्तमाः, क एते चत्वारस्तानुपदर्शयन्नाह - ' अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः - प्राग्निरूपितशब्दार्थाः, लोकस्य - भावलोकस्य उत्तमाः - प्रधानाः, तथा चोक्तम्- अरिहंता ताव तहिं उत्तमा हुन्ती उ भावलोयस्स । कम्हा ?, जं सवासिं कम्मपयडीपसत्थाणं ॥ १ ॥ अणुभावं तु पडुच्चा वेअणियाऊण णामगोयस्स । भावस्सोदइयस्सा णियमा ते उत्तमा होंति ॥ २ ॥ एवं चैव य भूओ उत्तरप गईविसेसणविसिद्धं । भण्णइ हु उत्तमत्तं | समासओ से णिसामेह ॥ ३ ॥ साय मणुयाउ दोण्णी णामप्पगई समा पसत्था य । मणुगइ पणिदिजाई ओरालियतेकम्मं च ॥ ४ ॥ ओरालियंगुवंगा समचउरंसं तहेव संठाणं । वइरोसभसंघयणं वण्णरसगंधफासा य ॥ ५ ॥ अगुरुलहुँ १ अर्हन्तस्तावत्तत्रोत्तमा भवन्त्येव भावलोकस्य । कस्मात् ? यत्सर्वासां कर्मप्रकृतीनां प्रशस्तानाम् ॥ १ ॥ अनुभावं तु प्रतीत्य वेदनीयायुषोर्नामगोत्रयोः भाव औदयिके नियमात् ते उत्तमा भवन्ति ॥ २ ॥ एवमेव च भूय उत्तरप्रकृतिविशेषणविशिष्टम् । भण्यते उत्तमध्वं समासतस्तस्य निशामयत ॥ ३ ॥ सातम नुजा युपी द्वे नामप्रकृतयस्तस्येमाः समाः प्रशस्ताश्च । मनुजगतिः पञ्चेन्द्रियजातिरौदारिकं तैजसं कार्मणं च ॥ ४ ॥ औदारिकाङ्गोपाङ्गानि समचतुरस्रं तथैव संस्थानम् वज्रर्षभसंहननं वर्णा रसगन्धस्पर्शाश्च ॥ ५ ॥ अगुरुलघु
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy