________________
आवश्यकहारिभ
.
द्रीया
॥५६९॥
SSSSSSSSS
|विसोहिजंति, जइ णत्थि तो सोही चरित्तस्स सुद्धतरिया भवइ । उक्तं सप्रसङ्गं प्रतिक्रमणम् , अत्रान्तरेऽध्ययनशब्दार्थो प्रतिक्रमनिरूपणीयः, स चान्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षे- मणा०चतुर्मपस्यावसरः, स च सूत्रे सति भवति,सूत्रंचसूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं-करेमि भन्ते! जाव वोसिरामि | लाख्यान __ अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्षणयोजना च सामायिकवद् द्रष्टव्या, आह-इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात् , उच्यते, प्रतिषिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् , अथवा 'यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद् रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥१॥' रागविषघ्नं चेदं, यतश्च मङ्गलपूर्व प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराह
चत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साह मंगलं केवलिपण्णत्तो धम्मो मंगलं मङ्गलं प्राग्निरूपितशब्दार्थ, तत्र चत्वारः पदार्था मङ्गलमिति, क एते चत्वारः?, तानुपदर्शयन्नाह-'अरिहंता मंगल'|मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलं, सितं ध्मातं येषां ते सिद्धाः, ते च सिद्धा मङ्गलं, निर्वाणसाधकान् योगान् साधयन्तीति साधवः, ते च मङ्गलं, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टव्याः,|॥५६९॥ यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररूपितः केव
विशोधयन्ति यदि न सन्ति तदा शुद्धिश्चारित्रस्य शुद्धतरा भवति ।
AAAAAAAKA