________________
आवश्यक
हारिभ
द्रीया
॥५६८॥
व्याख्या - स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाधार्थः ॥ १२६८ ॥ एवं जइ अणुपालेइ तओ उट्ठेइ, भणंति-वरं एवंपि जीवंतो, पच्छा सो पुवाभिमुहो ठिओ किरियं पउंजिउंकामो देवो भणइ
सिद्धे नमसिणं संसारत्था य जे महाविज्जा । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विजं ॥ १२६९ ॥ व्याख्या- 'सिद्धान्' मुक्तान् नमस्कृत्य संसारस्थाश्च ये 'महावैद्याः' केवलिचतुर्दशपूर्ववित्प्रभृतयस्ताँश्च नमस्कृत्य वक्ष्ये | दण्डक्रियां सर्वविषनिवारिणीं विद्यामिति गाथार्थः ॥ १२६९ ॥ सा चेयं
सव्वं पाणइवायं पच्चक्खाई मि अलियवयणं च । सव्वमदत्तादाणं अब्बंभ परिग्गहं खाहा ॥ १२७० ॥ व्याख्या- 'सर्व' सम्पूर्ण प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्व चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः ॥ १२७० ॥ एवं भणिए उडिओ, अम्मापिईहिं से कहियं, न सद्दहइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तव उट्ठविओ, पुणोवि पहाविओ, पडिओ, तइयाए वेलाए देवो णिच्छइ, पसादिओ, उट्ठविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेण समं पहाविओ, एगंमि वणसंडे पुवभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ,
१ एवं यद्यनुपालयति तदोत्तिष्ठति, भणन्ति-वरमेवमपि जीवन्, पश्चात् स पूर्वाभिमुखः स्थितः क्रियां प्रयोक्तुकामो देवो भणति । एवं भणिते उत्थितो मातापितृभ्यां तस्मै कथितं, न श्रद्दधाति, पश्चात् प्रधावितः पतितः पुनरपि देवेन तथैव उत्थापितः, पुनरपि प्रधावितः पतितः, तृतीयायां बेलायां देवो नेच्छति, प्रसादितः, उत्थापितः, प्रतिश्रुतं, मातापितरावापृच्छ्य तेन समं प्रधावितः, एकस्मिन् वनषण्डे पूर्वभवान् कथयति, संडुद्धः प्रत्येकबुद्धो जातः,
४प्रतिक्रमणा०क्रोधा
हिप्रती -
कारः
||५६८॥