________________
SSCRIOR
सेवामि सेलकाणणसुसाणसुन्नघररुक्खमूलाई। पावाहीणं तेर्सि खणमाविन उवेमि वीसंभं ॥१२६५॥
व्याख्या-'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैलाः-पर्वताः काननानि-दूरवर्तिवनानि शैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसर्पाणां तेषां क्षणमपि 'नोपैमि' न यामि विश्वम्भ' विश्वासमिति गाथार्थः ॥ १२६५ ॥ ___ अच्चाहारो न सहे अइनिघण विसया उइजंति । जायामायाहारो तंपि पकामं न इच्छामि ॥ १२६६ ॥
व्याख्या-'अत्याहारः' प्रभूताहारः 'न सहेत्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः-अतिस्निग्धेन हविःप्रचुरेण 'विषयाः' शब्दादयः 'उदीर्यन्ते' उद्रे कावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीति गाथार्थः॥१२६६ ॥ उस्सन्नकयाहारो अहवा विगईविवज्जियाहारो। जं किंचि कयाहारो अवउज्झियथोवमाहारो॥१२६७ ॥
व्याख्या-'उस्सन्नं' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधः, 'अवउन्जियथोवमाहारो'त्ति
उज्झित-उज्झितधर्मा स्तोकः-स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः ॥ १२६७ ॥ एवं क्रियायु-| रक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयति
थोवाहारो थोवभणिओ य जो होइ थोवनिदो य । थोवोवहिउवगरणो तस्स हु देवावि पणमंति ॥ १२६८॥