SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ तं च सि वालग्गाही अणोसहिबलोअ अपरिहत्थोय।सा यचिरसंचियविसा गहणंमि वणे वसइ नागी१२५८ | व्याख्या इयमेवम्भूता नागी रौद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः 'अनौषधिबलश्च' औषधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविषा 'गहने' सङ्कले 'वने' कार्यजाले वसति नागीति गाथार्थः ॥ १२५८ ॥ होही ते विणिवाओ तीसे दाढंतरं उवगयस्स । अप्पोसहिमंतबलो न हु अप्पाणं चिगिच्छिहिसि ॥१२५९ ॥ ___ व्याख्या-भविष्यति ते विनिपातः तस्या दंष्ट्रान्तरम् ‘उपगतस्य' प्राप्तस्य, अल्पं-स्तोकं औषधिमन्त्रबलं यस्य तव स8 त्वं अल्पौषधिमन्त्रबलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः॥ १२५९ ॥ इयं च मायानागी॥ उत्थरमाणो सव्वं महालओ पुन्नमेहनिग्घोसो। उत्तरपासंमि ठिओ लोहेण वियद्दई नागो॥१२६०॥ ___ व्याख्या-उत्थरमाणों त्ति अभिभवन् 'सर्व' वस्तु, महानालयोऽस्येति महालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावतस्येव निर्घोषो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वे स्थितः, उत्तरदिग्यासस्तु सर्वोत्तरो लोभ इति है ख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'वियदृइत्ति व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः ॥ १२६०॥ डको जेण मणुसो होइ महासागरुव्व दुप्पूरो । तं सव्वविससमुदयं कह घिच्छसि तं महानागं? ॥ १२६१ ॥ ___ व्याख्या-दष्टो येन मनुष्यो भवति 'महासागर इव' स्वयम्भूरमण इव दुष्पूरः 'तम्' इत्थम्भूतं 'सर्वविषसमुदयं सर्वव्यसनैकराजमार्ग कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ॥ १२६१ ॥ अयं तु लोभसर्पः ॥ एए ते पावाही चत्तारिवि कोहमाणमयलोभा। जेहि सया संतत्तं जरियमिव जयं कलकलेइ ॥ १२६२ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy