SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ASS ४प्रतिक्रमणा क्रोधादिनागस्व. ॥५६६॥ व्याख्या-मेरुगिरेस्तुङ्गानि-उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः, अष्टौ फणा यस्य सोऽष्टफणः जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमो-मृत्युसृत्युहेतुत्वात् 'ला आदाने' यमं लान्तीति-आददतीति यमला, यमला युग्मजिह्वा यस्य स यमलयुग्मजिह्वः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपाचे स्थितः, दक्षिणदिग्यासस्तु दाक्षिण्यवत उपरोधतो मानप्रवृत्तेः, अत एवाह-मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थः॥ १२५५॥ डको जेण मणूसो थद्धो न गणेइ देवरायमवि । तं मेरुपव्वयनिभं कह घिच्छसि तं महानागं?॥१२५६।। व्याख्या-'डक्को' दष्टः 'येन' सर्पण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपवैतनिभं कथं गृहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः॥१२५६ ॥ अयं च मानसर्पः॥ सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा ।मायामइआ नागी नियडिकवडवचणाकुसला ॥१२५७॥ __ व्याख्या-सललिता-मृद्वी वेल्लहला-रफीता गतिर्यस्याः सा सललितवेल्लहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्ये गाथाभङ्गभयादन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः-आन्तरो विकारः कपट-वेषपरावर्तादिर्बाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथार्थः॥ १२५७ ॥ १ उद्धत प्र०. ॥५६६॥ ISKO*06
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy