SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ गंधब्वनागदत्तो इच्छइ सप्पेहि खिल्लिय् इहयं । तं जइ कहिंवि खज्जइ इत्थ हु दोसो न कायवो ॥१२५२॥ व्याख्या-गन्धर्वनागदत्त' इति नामा 'इच्छति' अभिलषति सपैंः सार्द्ध क्रीडितुम् , अत्र स खलु-अयं यदि 'कथञ्चित् । केनचित्प्रकारेण 'खाद्यते' भक्ष्यते 'इत्थ हु' अस्मिन् वृत्तान्ते न दोषः कर्तव्यो मम भवद्भिरिति गाथार्थः ॥ १२५२ ॥ यथा चतसृष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाह| तरुणदिवायरनयणो विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्जलियरोसो ॥ १२५३ ॥ __व्याख्या-तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचने यस्य स तरुणदिवाकरनयनः, रक्काक्ष इत्यर्थः, विद्युल्लतेव चञ्चलाऽप्रजिह्वा यस्य स विद्युल्लताचञ्चलाग्रजिह्वाकः घोरा-रौद्रा महाविषा:-प्रधानविषयुक्ता दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः, उल्केव-चुडुलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः॥१२५३ ॥ डको जेण मणूसो कयमकयं न याणई सुबहुयंपि । अहिस्समाणमच्चु कह घिच्छसि तं महानागं? ॥ १२५४ ॥ व्याख्या-'डको' दष्टः 'येन' सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुबह्वपि, 'अदृश्यमानमृत्युम्' अहश्यमानोऽयं करण्डकस्थो मृत्युर्वर्तते, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमतः कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पम् ?, इति | गाथार्थः॥१२५४ ॥अयं चक्रोधसर्पः, पुरुषे संयोजना स्वबुद्ध्या कार्या, क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि ॥ मेरुगिरितुंगसरिसो अफणो जमलजुगलजीहालो। दाहिणपासंमि ठिओ माणेण वियट्टई नागो ॥१२५५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy