________________
परिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद् मध्यमानां च यावत्कथिकान्यतानीति गाथार्थः॥ १२४८ ॥ इत्थं यावकथिकमनेकभेदभिन्नं प्रतिपादितम्, इत्वरमपि दैवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाह
उच्चारे पासवणे खेले सिंघाणए पडिक्कमणं । आभोगमणाभोगे सहस्सकारे पडिक्कमणं ॥१२४९॥ व्याख्या-'उच्चारे' पुरीषे 'प्रस्रवणे' मूत्रे 'खेले' श्लेष्मणि 'सिद्धानके नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेष:-"उच्चारं पासवणं भूमीए वोसिरित्तु उवउत्तो। वोसरिऊण य तत्तो इरियावहि पडिकमइ ॥१॥ वोसिरइ मत्तगे जइ तो न पडिक्कमइ मत्तगं जो उ । साहू परिवेई णियमेण पडिक्कमे सो उ ॥२॥ खेलं सिंघाणं वाऽपडिलेहिय अप्पमजिउं तह य । वोसिरिय पडिक्कमई तं पिय मिच्छुक्कडं देइ ॥३॥' प्रत्युपेक्षितादिविधिविवेके तु न ददाति, तथाऽऽभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणम्-'आभोगे जाणंतेण जोऽइयारो कओ पुणो तस्स । जायम्मिवि अणुतावे पडिकमणेऽजाणया इयरो॥१॥ अनाभोगसहसात्कारे इत्थंलक्षणे-'पुविं अपासिऊणं छूढे पायंमि जं पुणो पासे । ण य तरइ णियत्तेउं पायं सहसाकरणमयं ॥१॥' अस्मिश्च सति प्रतिक्रमणम् ,
. उच्चारं प्रश्रवणं भूमौ व्युत्सृज्योपयुक्तः । व्युत्सृज्य च तत ईर्यापधिकी प्रतिक्रामति ॥ १॥ व्युत्सृजति मात्रके यदि तदा न प्रतिक्राम्यति मात्रक | यस्तु । साधुः परिष्ठापयति नियमेन प्रतिक्राम्यति स एव ॥ २ ॥ श्लेष्माण सिङ्घानं वाऽप्रतिलिख्याप्रमाय तथा च । व्युत्सृज्य प्रतिक्राम्यति तत्रापि च मिथ्या| दुष्कृतं ददाति ॥ ३ ॥ आभोगे जानता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्रतिक्रमणेऽजानतेतरः॥१॥ पूर्वमदृष्ट्वा क्षिप्ते पादे यत् पुनः पश्येत् । न च शक्रोति निवर्तितुं पादं सहसाकरणमेतत् ॥१॥