SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५६४॥ अयं गाथाक्षरार्थः || १२४९ ॥ इदं पुनः प्राकरणिकं- 'पंडिलेहेडं पमज्जिय भत्तं पाणं च वोसिरेऊणं । वसहीकयवरमेव उ नियमेण पडिक्कमे साहू || १ | हत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चिट्ठे। पंथे वा वच्चंतो णदिसंतरणे पडिक्कमइ ॥२॥ गतं प्रतिक्रमणद्वारम् अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोघतः पञ्चधा भवतीति, आह च निर्युक्तिकारःमिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थानं ॥ १२५० ॥ संसार पडिक्कमणं चव्विहं होइ आणुपुब्वीए । भावपडिक्कमणं पुण तिविहं तिविहेण नेयव्वं ।। १२५१ ।। व्याख्या - मिथ्यात्वमोहनीय कर्म पुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैर्मिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम्, असंयमः - प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, 'कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, 'योगानां च' मनोवाक्कायलक्षणानाम् 'अप्रशस्तानाम्' अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥ १२५० ॥ संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं 'चतुर्विधं' चतुष्प्रकारं भवति 'आनुपूर्व्या' परिपाठ्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (षामा ) भोगानाभोगस हसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम्, एवं तिर्यग्नरामरेष्वपि विभाषा, नवरं शुभनरामरायुर्हेतुभ्यो मायाद्यनासेव १ प्रतिलिख्य प्रमृज्य भक्तं पानं च ध्युत्सृज्य । वसतिकचवरमेव तु नियमेन प्रतिक्राम्येत् साधुः ॥ १ ॥ हस्तशतादागत्य गत्वा च मुहूर्त्तकं यत्र तिष्ठेत् पथि वा व्रजन् नदीसंतरणे प्रतिक्राम्यति ॥ २ ॥ ४ प्रतिक्रमणा०प्रतिक्रमणस्था नानि ॥५६४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy