________________
सक्किमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ १२४४ ॥
व्याख्या - सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमाद बहुलत्वाच्च, एतेष्वेव स्थानेषु 'मध्यमानां जिनानाम्' अजितादीनां पार्श्वपर्यन्तानां 'कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः || १२४४ ॥ तथा चाह ग्रन्थकारः -
जो जा आवन साहू अन्नयरयंमि ठाणंमि । सो ताहे पडिक्कमई मज्झिमाणं जिणवराणं ॥ १२४५ ॥ व्याख्या- 'यः' साधुरिति योगः 'यदा' यस्मिन् काले पूर्वाह्नादौ 'आपन्नः' प्राप्तः 'अन्यतरस्मिन् स्थाने' प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्षं वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ॥ १२४५ ॥ | आह- किमयमेवं भेदः प्रतिक्रमणकृतः ? आहोश्विदन्योऽप्यस्ति ?, अस्तीत्याह, यतः -
बावीसं तित्थयरा सामाइयसंजमं उवहसंति । छेओवढावणयं पुण वयन्ति उसभो य वीरो य ॥ १२४६ ॥ व्याख्या- 'द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिकं संयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति - प्रथमतीर्थङ्करचरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायि कसंयतो भवति तावद् यावच्छस्त्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत्, अधुना तु षड्जीवनिकायावगमं यावत् तया पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन् व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः पुनर्मूलस्थानं प्राप्त