SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५६२॥ XOCROSS HASSASSIS** करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्भन्थनं करोति, ततो ग्राहका गृह्णन्ति, प्रतिक्रमततोऽस्याभिलषितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद्, अन्यस्तु विपरीतकारी माला- णा०मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्ग-2 कारोदाहस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चा रणमालो चनायां | दालुश्चनं स्पष्टवुद्ध्याऽपराधग्रहणं, ततो विकटीकरणं गुरुलघूनामपराधानां विभजनं, चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनं, ततो यथाक्रमं गुरोनिवेदनं करोति, एवं कुर्वतो भावशुद्धिरुपजायते, औदयिकभावात् क्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन्न भवति, तत्रेत्थं भवति-'आलोयणापरिणओ सम्म संपहिओ गुरुसगासं । जइ अंतरावि कालं करिज आराहओ तहवि ॥१॥' एवं तु न भवति- इड्डीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं । जो ण कहेइ गुरूणं न हु सो आराहओ भणिओ ॥१॥'त्ति गाथार्थः ॥ १२४३ ॥ इथं चालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, | मध्यमतीर्थकरतीर्थेषु पुन वं, किन्त्वतिचारवत एव शुद्धिः क्रियत इति, आह च ॥५६२॥ आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशम् । यद्यन्तराऽपि कालं कुर्यादाराधकस्तथापि ॥१॥ ऋझ्या गौरवेण बहुश्रुतमदेन वाऽपि दुश्चरितम् । यो न कथयति गुरुभ्यो नैव स आराधको भणितः॥१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy