________________
व्याख्या—तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेरुपयुक्तस्य वा निवस्य वस्त्रसुवर्णादेर्वा लक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्यावर्ण्यते क्रियते वा क्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्र व्यावर्ण्यते क्रियते वा शक्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा - प्रशस्ता प्रशस्ता च प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेर्वैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति गाथार्थः ॥ १२४१ ॥ साम्प्रतं विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाह -
अद्धणे पासोए दुद्धकीय विसभोयणतलाएँ । दो कन्नाओ पइमारियाँ य वर्थे य अगए य ॥ १२४२ ॥ व्याख्या--अध्वानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रं चागदश्च तत्थ पडिक्कमणे अद्धाणदितो - जहा एगो राया णयरबाहिं पासायं काउकामो सोभणे दिणे सुत्ताणि पाडियाणि, रक्खगा णिउत्ता भणिया य - जइ कोइ इत्थ पविसिज्ज सो मारेयबो, जइ पुण ताणि चैव पयाणि अक्कमंतो पडिओसरइ सो मोयचो, तओ तेसिं रक्खगाण वक्खित्तचित्ताणं कालहया दो गामिलया पुरिसा पविट्ठा, ते णाइदूरं गया रक्खगेहिं दिट्ठा, उक्करिसियखग्गेहि य
१ तत्र प्रतिक्रमणेऽध्वन्यदृष्टान्तः, यथा एको राजा नगराद्वहिः प्रासादं कर्तुकामः शोभने दिने सूत्राणि पातितवान्, रक्षका नियुक्ता भणिताश्च यदि कश्चित् अत्र प्रविशेत् स मारयितव्यः, यदि पुनस्तानेव पादान् आक्राम्यन् प्रत्यवसर्पति स मोक्तव्यः, ततस्तेषां रक्षकाणां व्याक्षिप्तचिचानां कालहतौ द्वौ ग्राम - यकौ पुरुषौ प्रविष्टौ तौ नातिदूरं गतौ रक्षकैर्दृष्टौ आकृष्टखङ्गैश्व