________________
भावपरिहरणाप्रशस्ता अप्रशस्ता च,अप्रशस्ता ज्ञानादिपरिहरणा,प्रशस्ता क्रोधादिपरिहरणा,अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानीं, वृत्रु वरणे' इत्यस्य ण्यन्तस्य ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह| णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिकखेवो छव्विहो होइ ॥१२३७॥ | व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेवा |देशनायां उपयुक्तस्य वा निह्नवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे व्यावय॑ते क्रियते वा
क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् व्यावय॑ते क्रियते वा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववारणेदानी, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौघत एवोपयुक्तस्य 8 सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तनं निवृत्तिः, सा च पोढा, यत आहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छव्विहो होइ ॥१२३८॥ व्याख्या-नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् प्रशस्तभावनिवृत्त्येहाधिकारः। निन्देदानी, तत्र 'णिदि कुत्सायाम्' अस्य 'गुरोश्च हलः' (पा०३-३-१०३) इत्यकारः टाप् , निन्दनं निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह
RECORRECAUCRACROER