________________
आवश्यकहारिभद्रीया
प्रतिकमणाध्ययने प्रतिक्रमणादिस्वरूपं
॥५५२॥
AASARALASAX
तेन तेन प्रकारेण लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा| व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, यथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन् काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणम, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वेधा-प्रशस्ताऽप्रशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं-प्रवर्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः ॥ १२३५ ॥ इदानीं परिहरणा, 'हृञ् हरणे' अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैर्वर्जनेत्यर्थः, सा च अष्टविधा, तथा चाहणामं ठवणा दविए परिरय परिहार वजणाए य । अणुगह भावे य तहा अविहा होइ परिहरणा ॥१२३६॥ | व्याख्या-नामस्थापने गतार्थे, द्रव्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिरयपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापरिहरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपरिहरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा,
* आस्कोटकानां यो भङ्गस्तस्य परिहरणा प्रतिलेखनादिविधिविराधनापरिहरणेत्यर्थः.
॥५५२॥