________________
HOSTESSEISSACROSASSASS
दोषः, इत्थमेवोपन्यासः कस्मान्न कृत इति चेत् प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः ॥ १२३२ ॥ उक्तः प्रतिक्रमकः, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाहपडिकमणं पडियरणा परिहरणा वारणा नियत्ती य । निंदा गरिहा सोही पडिकमणं अट्टहा होइ ॥१२३३॥ व्याख्या-'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुनाभेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽहणाम ठवणा दविए खित्ते काले तहेव भावे य । एसो पडिकमणस्सा णिक्खेवो छव्विहो होइ ॥ १२३४ ॥ __ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निहस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे व्यावय॑ते क्रियते वा यतो वा प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्रुवं च, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा वा ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु त्वध्रुवं-कारणजाते प्रतिक्रमणमिति, भावप्रतिक्रमणं द्विधा-प्रशस्तमप्रशस्तं च, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेरिति, प्रशस्तेनात्राधिकारः॥ प्रतिचरणा व्याख्यायते-'चर गतिभक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च षड्विधा, तथा चाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो पडियरणाए णिक्खेवो छविहो होइ ॥१२३५ ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टस्तेषु तेष्वर्थेष्वाचरणीयेषु चरण-मनं