SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५५॥ ४ प्रतिक्रमणाध्ययने प्रतिक्रमणादिस्वरूपं SESSISEXASSES योज्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं, यत उक्तम्-'अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अणागयं पच्चक्खामि'त्ति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते, प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः ॥ १२३१॥ साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाहजीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झाणपसत्था जोगा जे ते ण पडिक्कमे साहू ॥१२३२॥ व्याख्या-'जीवः' प्राग्निरूपितशब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ?-सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ?-'अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह-पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ च तो योगौ च प्रशस्तयोगौ, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान् सेवेत, मनोयोगप्राधान्यख्यापनार्थ पृथग ध्यानग्रहणं, प्रशस्तयोगोपादानाच्च ध्यानमपि धर्म| शुक्लभेदं प्रशस्तमवगन्तव्यम् , आह-'यथोद्देशं निर्देश' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः?, तथाऽऽद्यगाथागतमानुपूर्वी ग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यत्वात् कर्बधीनत्वाच्च क्रियाया इत्य अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि. ॥५५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy