SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रमुक्तेन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगः - शरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः ॥ १२२५ ॥ इत्थं सूत्रस्पर्श निर्युक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाह आवत्ताइस जुगवं इह भणिओ कायवायवावारो । दुण्हेगया व किरिया जओ निसिद्धा अउ अजुत्तो ॥ १२२६ ॥ व्याख्या - इहाssवर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा 'भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावादू, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, उच्यते भिन्नविसयं निसिद्धं किरिया दुगमेगया ण एगंमि । जोगतिगस्स वि भंगिय सुत्ते किरिया जओ भणिया ॥ १२२७॥ व्याख्या — इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थं नयादिगोचरमटति च तत्रोत्प्रे क्षायां यदोपयुक्तो न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्- "भंगियसुयं गुणंतो वहइ तिविहेऽवि जोगंमीत्यादि, गतं प्रत्यवस्थानं, सीसी पढमपवेसे वंदिउमावस्सिआएँ पडिक्कमिडं | बितियपवेसंमि पुणो वंदइ किं ? चालणा अहवा॥। १२२८ ।। जह दूओ रायाणं णमिउं कज्जं निवेहउं पच्छां । वीस जिओवि वंदिय गच्छइ साहूवि एमेव ॥ १२२९ ॥ १ भङ्गिक श्रुतं गुणयन् वर्त्तते त्रिविधेऽपि योगे । २ शिष्यः प्रथमप्रवेशे वन्दितुमावश्यिक्या प्रतिक्रम्य । द्वितीयप्रवेशे पुनर्वन्दते किं चालनाऽथवा ॥ १ ॥ यथादूतो राजानं नत्वा कार्य निवेद्य । पश्चात् । विसृष्टोऽपि वन्दित्वा गच्छति एवमेव साधवोऽपि ॥ २ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy