________________
आवश्यकहारिभद्रीया
वन्दनाध्ययने वन्दनस्थानानि
॥५४९॥
भावतस्त्विन्द्रियम्यादृष्टरिति, आह
व्याख्या-बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत्, कियहरं यावदित्याह-यावच्छिरसा स्पृशेत् पादाविति गाथार्थः ॥ १२२२ ॥ अव्याबाधं द्रव्यतो भावतश्च, द्रव्यतः खड्गाद्याघातव्याबाधाकारणविकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः, अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्ध्या वक्तव्यं, यात्रा द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणं भावतः साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च, द्रव्यत औषधा दिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च, द्रव्यतः कलुषाशयस्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह चअव्वाबाहं दुविहं दव्वे भावे य जत्त जवणा य । अवराहखामणाविय सवित्थरत्थं विभासिज्जा ॥१२२३ ॥
एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम्, इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः नियुक्तिकृताऽपि स एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारः
छंदेणऽणुजाणामि तहत्ति तुज्झपि वहई एवं । अहमवि खामेमि तुमे वयणाई वंदणरिहस्स ॥१२२४ ॥ | व्याख्या-छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां, वचनानि 'वन्दनार्हस्य' वन्दन- योग्यस्य, विषयविभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः ॥ १२२४ ॥
तेणवि पडिच्छियव्वं गारवरहिएण सुद्धहियएण । किइकम्मकारगस्सा संवेगं संजणंतेणं ॥१२२५ ॥ व्याख्या-'तेन' वन्दनाहेण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वाहक्ष्यादिगौरवरहितेन, 'शुद्धहृदयेन' कषायवि
अवराहखामबन्दमानस्य
५४९॥