SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ व्याख्या-नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदात्रिविधा, अश्वभूषितयुवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधा-केवलशिष्यसोपकरणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिकी वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचाराद्यनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्यक्षुण्णत्वादवग्रहस्य निक्षेपःणाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ उग्गहस्सा णिक्खेवो छव्विहो होइ ॥ १२२१ ॥ व्याख्या-सचित्तादिद्रव्यावग्रहणं द्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णाति, तत्र च समन्ततः सक्रोशं योजनं, कालावग्रहो यो यं कालमवगृह्णाति, वर्षासु चतुरो मासान् ऋतुबद्धे मासं, भावावग्रहः प्रशस्तेतरभेदः, प्रशस्तो ज्ञानाद्यवग्रहः, इतरस्तु क्रोधाद्यवग्रह इति, अथवाऽवग्रहः पञ्चधा-'देविंदरायगिहवइ सागरिसाधम्मिउग्गहो तह य । पंचविहो पाणत्तो अवग्गहो वीयरागेहिं ॥१॥' अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारः-'आयप्पमाणमित्तो चउद्दिसिं होइ उग्गहो गुरुणो । अणणुण्णातस्स सया ण कप्पए तत्थ पइसरिजं ॥१॥' ततश्च तमनुज्ञाप्य प्रविशति, आह च नियुक्तिकारःबाहिरखित्तंमि ठिओ अणुन्नवित्ता मिउग्गहं फासे । उग्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए ॥१२२२ ॥ . देवेन्द्रराजगृहपतिसागारिकसाधर्मिकावग्रहस्तथैव । पञ्च विधः प्रज्ञप्तोऽवग्रहो वीतरागैः॥ २ आत्मप्रमाण मानश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥२॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy