________________
ON
आवश्यकहारिभद्रीया
३वन्दनाध्ययने वन्दनस्थानानि
॥५४८॥
CAREERSAR
भणति-'इच्छामि खमासमणो' इत्यादि सर्व द्रष्टव्यमित्येवं, नवरमयं विशेषः-'खामेमि खमासमणो' इत्यादि सर्व सूत्रमावश्यिक्या विरहितं तत् पादपतित एव भणति, शिष्यासम्मोहार्थ सूत्रस्पर्शिकगाथाःस्वस्थाने खल्वनादृत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः, साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाहइच्छा य अणुन्नवणा अव्वाबाहं च जत्त जवणा य । अवराहखामणावि य छट्ठाणा हुंति वंदणए ॥ १२१८॥ __ व्याख्या-इच्छा च अनुज्ञापना अव्याबाधं च यात्रा यापना च अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति वन्दनके ॥ तत्रेच्छा षड्विधा, यथोक्तम्। णामं ठवणादविए खित्ते काले तहेव भावे य । एसो खलु इच्छाए णिक्खेवो छविहो होइ ॥ १२१९ ॥ ___ व्याख्या-नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषः-रयणिमहिसारिया उ चोरा परदारिया य इच्छंति । तालायरा सुभिक्खं बहुधण्णा केइ दुब्भिक्ख ॥ १॥ भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषः, अप्रशस्ता स्त्रयाद्यभिलाष इति, अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं, क्षुण्ण|त्वावन्थविस्तरभयाच्च नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा, सा च पड्विधानाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ अणुण्णाए णिक्खेवो छब्विहो होइ ॥१२२०॥ १ रजनीमभिसारिकास्तु चौराः पारदारिकाश्वेच्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिहुर्भिक्षम् ॥१॥
॥५४८