SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ एवं उवहिसंथारगाइसु विभासा, खित्तासायणा आसन्नं गंता भवइ राइणियस्स, कालासायणा राओ वा वियाले वा वाहरमाणस्स तुसिणीए चिट्ठइ, भावासायणा आयरियं तुमं तुमति वत्ता भवइ, एवं तित्तीसंपि चउसु दवाइसु समोयरंति' 'यत्किञ्चिन्मिथ्यया' यत्किञ्चिदाश्रित्य मिथ्यया, मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, 'वाग्दुष्कृतया' असाधुवचननिमित्तया, 'कायदुष्कृतया' आसन्नगमनादिनिमित्तया, 'क्रोधये 'ति क्रोधवत्येति प्राप्ते अर्शादेराकृतिगणत्वात् अच्प्रत्ययान्तत्वात् 'क्रोधया' क्रोधानुगतया, 'मानया' मानानुगतया, 'मायया' मायानुगतया, 'लोभया' लोभानुगतया, अयं भावार्थ:- क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता, अधुनेह|भवान्यभवगताऽतीतानागतकालसङ्ग्रहार्थमाह - सर्वकालेन - अतीतादिना निर्वृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचा राः - मातृस्थानगर्भाः क्रियाविशेषा यस्यामिति समासस्तया, सर्वधर्मा:- अष्टौ प्रवचनमातरः तेषामतिक्रमणं - लङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति-यो मयाऽतिचारः - अपराधः 'कृतो' निर्वर्तितः 'तस्य' अतिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रामामि - अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन, सामायिकानुसारेण च निन्दादिपदार्थो न्यक्षेण वक्तव्यः, एवं क्षामयित्वा पुनस्तत्रस्थ एवार्द्धावनतकाय एव १ एवमुपधिसंस्तारकादिषु विभाषा, क्षेत्राशातनाऽऽसन्नं गन्ता भवति रानिकस्य, कालाशातना रात्रौ वा विकाले वा व्याहरतस्तूष्णीकस्तिष्ठति, भावाशातना आचार्य त्वं स्वमिति वक्ता भवति, एवं त्रयस्त्रिंशदपि चतसृष्वपि द्रव्यादिषु समवसरन्ति.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy