SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ३ वन्दनाध्ययने सूत्रव्या ॥५४७॥ SARACRORECARAM येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरे गुरुर्भणति-तथेति,यथा भवान् ब्रवीति, पुनराह विनेयः-'यात्रा' तपोनियमादि- लक्षणा क्षायिकमिश्रौपशमिकभावलक्षणा वा उत्सर्पति भवताम्?, अत्रान्तरे गुरुर्भणति-युष्माकमपि वर्तते ?, मम तावदुसर्पति भवतोऽप्युत्सर्पतीत्यर्थः, पुनरप्याह विनेयो-यापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवता?, शरीरमिति गम्यते, अत्रान्तरे गुरुराह-एवमामं, यापनीयमित्यर्थः, पुनराह विनेयः-'क्षमयामि' मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निवृत्तो दैवसिकस्तं व्यतिक्रमम्-अपराध, दैवसिकग्रहणं रात्रिकाद्युपलक्षणार्थम् , अत्रान्तरे गुरुर्भणति-अहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामयित्वाऽऽलोचनाहेण प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहान्निर्गच्छन् यथा अर्थो व्यवस्थितस्तथा क्रियया प्रदर्शयन्नाव|श्यिक्येत्यादि दण्डकसूत्रं भणति, अवश्यकर्तव्यैश्चरणकरणयोगैनिर्वृत्ता आवश्यकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थं सामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानां व्यावर्णितस्वरूपाणां सम्बन्धिन्या 'दैवसिक्या' दिवसेन निवृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया-त्रयस्त्रिंशदन्यतरया, आशातनाश्च यथा दशासु, अत्रैव वाऽनन्तराध्ययने तथा द्रष्टव्याः, 'ताओ पुण तित्तीसपि आसायणाओ इमासु चउसु मूलासायणासु समोयरंति दबासायणाए ४, दबासायणा राइणिएण समं भुंजंतो मणुण्णं अप्पणा भुंजइ। ताः पुनस्त्रयस्त्रिंशदपि आशातनाः आसु चतसृषु मूलाशातनासु समवतरन्ति द्रव्याशातनायां ४, द्रव्याशातना रात्रिकेन समं भुआनो मनोज्ञमारमना भुले. ॥५४७॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy