________________
क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूषु सहने' इत्यस्याडन्तस्य क्षमा, 'श्रमु तपसि खेदे च' अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रण, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्यन्तस्य कर्तर्यनीयच , यापयतीति यापनीया तया, 'पिधु गत्याम्' अस्य निपूर्वस्य पनि निषेधनं निषेधः निषेधेन निवृत्ता नैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिके|त्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थ तु न बमः, अयं च प्रकृतसूत्रार्थः-अवग्रहाद्वहिःस्थितो विनेयोऽविनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्या-प्राणातिपातादिनिवृत्तया | तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुाक्षेपादियुक्तः 'त्रिविधेने ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु'छन्दसे'ति भणति, ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीवं अनुज्ञा प्रयच्छथ, 'मम'इत्यात्मनिर्देशे,8 के?-मितश्चासाववग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्तात्कायः अधःकाय:-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पशेस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम् अधुना 'कुमो देहग्लानिरूपः, तथा अल्पं-स्तोकं क्लान्त-कुमो