SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ• द्रीया ॥५४५॥ वंदेणपज्जुवासणया १, गोयमा ! सवणफला, सवणे णाणफले, णाणे विण्णाणफले, विण्णाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफला" । तथा वाचकमुखेनाप्युक्तम्- 'विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ १ ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ २ ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ३ ॥ इति गाथार्थः ॥ १२१५ ॥ किं च । विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्यमुक्कस्स, कओ धम्मो कओ तवो १ ॥ १२१६ ॥ व्याख्या - शास्यन्तेऽनेन जीवा इति शासनं द्वादशाङ्गं तस्मिन् विनयो मूलं यत उक्तम्- 'मूलौड खंधप्पभवो दुमस्स, खंधाउ पच्छा विरुहंति साला (हा ) । साहप्पसाहा विरुवं (हं ) ति पत्ता, ततो सि पुष्पं च फलं रसोय ॥ १ ॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो । जेण कित्ती सुयं सिग्धं निस्सेसमधिगच्छइ ॥ २ ॥” अतो विनीतः संयतो भवेत्, १ वन्दनपर्युपासना ?, गौतम ! श्रवणफला, श्रवणं ज्ञानफलं ज्ञानं विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं, संयमोऽनाश्रवफलः । अनाश्रवस्तपःफलः, तपो व्यवदानफलं व्यवदानं अक्रियाफलं, अक्रिया सिद्धिगतिगमनफला । २ मूलात् स्कन्धप्रभवो द्रुमस्य स्कन्धात् पश्चात् प्रभवति शाखा । शाखायाः प्रशाखा विरोहन्ति ( ततः ) पत्राणि, ततस्तस्य पुष्पं च फलं रसश्च ॥ १ ॥ एवं धर्मस्य विनयो मूलं परमस्तस्य मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति ॥ २ ॥ ३ वन्दनाध्ययने वन्दनकरकरणकारणं 1148411
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy