SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः ॥ १२१६ ॥ अतो विनयोपचारार्थ कृतिकर्म क्रियत इति स्थितम् ।। आह-विनय इति कः शब्दार्थ इति, उच्यतेजम्हा विणयइ कम्मं अविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ १२१७॥ ___ व्याख्या-यस्माद्विनयति कर्म-नाशयति कर्माष्टविधं, किमर्थ?-चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वद|न्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीनसंसाराः' क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौनष्टक्षीराऽभिधीयते इति गाथार्थः ॥ १२१७ ॥ किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्र 'इच्छामि खमासमणो! वंदिउंजावणिजाए निसीहियाए अणुजाणहमे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिजो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्तो?, जत्ता भे? जवणिजं च भे ? खामेमि खमासमणो ! देवसियं वइक्कम, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy