SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ व्याख्या - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः 'प्रयुङ्क्ते' करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति | गाथार्थः ॥ १२१३ ॥ आह— दोषपरिशुद्धाद्वन्दनात्को गुणः १ येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यतेआवस्सएस जह जह कुणइ पयन्तं अहीणमइरित्तं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ॥ १२१४ ॥ व्याख्या—'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा २ करोति प्रयत्नम् ' अहीनातिरिक्तं ' न हीनं नाप्यधिकं, किम्भूतः सन् ? -त्रिविधकरणोपयुक्तः, मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा २ 'से' तस्य वन्दनकर्तुर्निर्जरा भवति - कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः ॥ १२१४ ॥ गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् अधुना किमिति क्रियत इति द्वारं, तत्र बन्दनकरणकारणानि प्रतिपादयन्नाह— विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराणाऽकिरिया ॥ १२१५ ॥ व्याख्या - विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याह- 'मानस्य' अहङ्कारस्य 'भञ्जना' विनाशः, तदर्थः, मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाऽनुपालिता भवति, यतो भगवद्भिर्विनयमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्वं श्रुतग्रहणं, 'अकिरिय'त्ति पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् विनयादेव भवतीति, उक्तं च परमर्षिभिः - तहारूवं णं भंते ! समणं वा माहणं वा वंदमाणस्स पज्जुवासमाणस्स किंफला १ तथारूपं श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य किंफला
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy