SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मच्छुव्वत्तं मणसा पउडं तह य वेइयावद्धं । भयसा चेव भयंतं, मित्ती गारवकारणा॥१२०८॥ व्याख्या-मत्स्योद्वत्तम् एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुं द्वितीयपार्चेन रेचकावर्तेन परावर्तते ८ मनसा प्रदष्ट, वन्द्यो हीनः केनचिद्गुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते ९ तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुं करद्वयान्तः कृत्वा वन्दते १० 'भयसा चेव'त्ति भयेन वन्दते, मा भूद्गच्छादिभ्यो निर्धाटनमिति ११, 'भयंत ति भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति १२, 'मेत्ति'त्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते १३ 'गारवित्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं १४, 'कारण'त्ति ज्ञानादिव्यतिरिक्त कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति १५, अयं गाथार्थः॥ १२०८॥ तेणियं पडिणियं चेव, रुठं तजियमेव य । सढं च हीलियं चेव, तहा विपलिउंचियं ॥१२०९॥ ___ व्याख्या-'स्तैन्य'मिति परेभ्यः खल्वात्मानं गृहयन स्तेनक इव वन्दते, मा मे लाघवं भविष्यति १६, 'प्रत्यनीकम्' आहारादिकाले वन्दते १७, 'रुष्टं क्रोधाध्मातं वन्दते क्रोधाध्मातो वा १८, 'तर्जितं' न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन्-निर्भसंयन् वन्दते, अङ्गुल्यादिभिर्वा तर्जयन् १९, 'शठं' शाठ्येन विश्रम्भार्थ वन्दते, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दते २०, हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते |२१, तथा 'विपलिकुञ्चितम्' अर्द्धवन्दित एव देशादिकथाः करोति २२, इति गाथार्थः॥ १२०९ ॥ दिठमदिट्टं च तहा, सिंगं च करमोअणं । आलिहमणालिहूं, ऊणं उत्तरचूलियं ॥ १२१०॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy