________________
आवश्यक हारिभ
द्रीया
॥५४१ ॥
पसंते आसणत्थे य, उवसंते उबट्ठिए । अणुन्नवित्तु मेहावी, किइकम्मं पजए ॥ ११९९ ॥
व्याख्या – 'प्रशान्तं' व्याख्यानादिव्याक्षेपरहितम् ' आसनस्थं' निषद्यागतम् 'उपशान्तं' क्रोधादिप्रमादरहितम् 'उपस्थितं' छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतं सन्तमनुज्ञाप्य मेधावी ततः कृतिकर्म प्रयुञ्जीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थः ॥ ११९९ ॥ गतं कदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वः कृतिकर्म कार्यं ?, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्यत उभयस्थाननिदर्शनायाऽऽह नियुक्तिकारः
'पडिकमणे सज्झाए काउस्सगावरोह पाहुणए । आलोयणसंवरणे उत्तम य वंदणयं ॥ १२०० ॥ व्याख्या - प्रतीपं क्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्तनमित्यर्थः तस्मिन् सामान्यतो वन्दनं भवति, तथा 'स्वाध्याये' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगतिपरिभोगायाऽऽचाम्लविसर्जनार्थं क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्र चायं विधिः- 'संभोईय अण्णसंभोइया य दुविहा हवंति पाहुणया । संभोइय आयरियं आपुच्छित्ता उ वंदे ॥ १ ॥ इयरे पुण आयरियं वंदित्ता संदिसाविडं तह य । पच्छा वंदेइ जई गयमोहा
१ सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकान् आचार्य आपृच्छय तु वन्दते ॥ १ ॥ इतरान् पुनराचार्य वन्दित्वा संदिश्य तथा च । पश्चात् वन्दन्ते यतयो गतमोहा
३ वन्दना - ध्ययने
वन्दने यो
ग्याव०कारणानि च
॥५४१॥