________________
अहव वंदावे ॥२॥” तथाऽऽलोचनायां विहारापराधभेदभिन्नायां 'संवरणं' भुक्तः प्रत्याख्यानम् , अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृह्णतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थे वा' अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ॥ १२००॥ इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्यांप्रदर्शनायाऽऽहचत्तारि पडिक्कमणे किइकम्मा तिन्नि हुँति सज्झाए । पुवण्हे अवरण्हे किइकम्मा चउदस हवंति ॥ १२०१॥
व्याख्या-चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति, स्वाध्याये पूर्वाहे-प्रत्युषसि, कथं?, गुरु पुवसंझाए वंदित्ता आलोएइत्ति एवं एकं, अब्भुठियावसाणे जं पुणो वंदंति गुरुं एवं बिइयं, एत्थ य विही-पच्छा जहण्णेण तिण्णि मज्झिम पंच वा सत्त वा उक्कोसं सवेवि वंदियवा, जइ वाउला वक्खेवो वा तो इक्केण ऊणगा जाव तिण्णि अवस्सं वंदियबा, एवं देवसिए, पक्खिए पंच अवस्सं, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरियस्स अल्लिविजइ तं तइयं, पच्चक्खाणे चउत्थं, सज्झाए पुण वंदित्ता पट्टवेइ पढम, पट्टविए पवेदयंतस्स बितियं, पच्छा उद्दिहं समुद्दि पढइ, उद्देससमुद्देसवंदणाणमिहेवांतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइण पढिउकामोतो वंदइ,
१ अथवा वन्दयेयुः ॥ २ गुरुं पूर्वसन्ध्यायां वन्दित्वाऽऽलोचयतीति एतदेकं, अभ्युस्थितावसाने यत्पुनर्वन्दन्ते गुरुमेतद्वितीय, अत्र च विधिः-पश्चाजघन्येन त्रयो मध्यमेन पञ्च वा सप्त वा उत्कृष्टेन सर्वेऽपि वन्दितव्याः, यदि व्याकुला व्याक्षेपो वा तदैकेनोना यावत् त्रयोऽवश्यं वन्दितव्याः, एवं देवसिके, पाक्षिके पञ्चावश्यं, चातुर्मासिके सांवत्सरिकेऽपि सप्तावश्यमिति, तान् वन्दित्वा यत्पुनराचार्यायाश्रयणाय दीयते तत्तृतीयं, प्रत्याख्याने चतुर्थ, स्वाध्याये पुनर्वन्दित्वा प्रस्थापयति प्रथम, प्रस्थापिते प्रवेदयतो द्वितीयं, पश्चादुद्दिष्टसमुद्दिष्टं पठति, उद्देशसमुद्देशवन्दनानामिहैवान्तर्भावः, ततो यदा चतुर्भागावशेषा पौरुषी तदा पात्राणि प्रतिलेखयति, यदि न पठितुकामस्तदा वन्दते.