________________
व्याख्या-मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम्, अपिशब्दान्मातामहपितामहादिपरिग्रहः, कृतिकर्म' अभ्युत्थितवन्दनमित्यर्थः, न कारयेत् सर्वान् रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः, किमिति ?, मात्रादीन् वन्दनं कारयतः लोकगोपजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत् , सागारिकाध्यक्षे तुर यतनया कारयेद्, एष प्रव्रज्याप्रतिपन्नानां विधिः, गृहस्थाँस्तु कारयेदिति गाथार्थः॥११९६ ॥ साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाहपंचमहव्वयजुत्तो अणलस माणपरिवजियमईओ। संविग्गनिजरही किइकम्मको हवइ साह ॥११९७ ॥ व्याख्या-पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः 'अणलस'त्ति आलस्यरहितः 'मानपरिवर्जित-18 मतिः' जात्यादिमानपराङ्मुखमतिः 'संविग्नः' प्राग्व्याख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको
भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः ॥११९७ ॥ गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, टू कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं ?, तत्र
वक्खित्तपराहुत्ते अ पमत्ते मा कया हु वंदिजा । आहारं च करितो नीहारं वा जइ करेइ ॥ ११९८॥ व्याख्या-व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखं, चशब्दादुद्भू(त्थि)तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीवा|निर्गमनादयो दोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः ॥ ११९८ ॥ कदा तर्हि वन्देतेत्यत आह
SARALLERGARALANCHAR